|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.211. अध्यायः 211
Mahabharata - Vana Parva - Chapter Topics
कौशिकंप्रति धर्मव्याधेन शिष्टलक्षणादिकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-211-0x(2482)(24246)
स तु विप्रो महाप्राज्ञ धर्मव्याधमपृच्छत।
शिष्टाचारं कथमहं विद्यामिति नरोत्तम ॥ 3-211-1(24247)
`पञ्च कानि पवित्राणि शिष्टाचारेषु नित्यदा'।
एतदिच्छामि भद्रं ते श्रोतुं धर्मभृतांवर।
त्वत्तो महामते व्याध तद्ब्रवीहि यथातथम् ॥ 3-211-2(24248)
व्याध उवाच। 3-211-3x(2483)
यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम।
पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा ॥ 3-211-3(24249)
कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम्।
धर्ममित्येवं संतुष्टास्ते शिष्टाः शिष्टसंमताः ॥ 3-211-4(24250)
न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायशीलिनाम्।
आचारपालनं चैव द्वितीयं शिष्टलक्षणम् ॥ 3-211-5(24251)
गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च।
एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा ॥ 3-211-6(24252)
शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः।
यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा ॥ 3-211-7(24253)
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः।
दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा ॥ 3-211-8(24254)
ये तु धर्मानसूयन्ते बुद्धिमोहान्विता नराः।
अपथा गच्छतां तेषामनुयाता च पीड्यते ॥ 3-211-9(24255)
ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः।
धर्मपन्थानमारूढाः सत्यधर्मपरायणाः ॥ 3-211-10(24256)
नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता जनाः।
उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः ॥ 3-211-11(24257)
नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान्।
त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च ॥ 3-211-12(24258)
कामलोभग्रहाकीर्णं पञ्चेन्द्रियजलां नदीम्।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर ॥ 3-211-13(24259)
क्रमेण संचितो धर्मो बुद्धियोगमयो महान्।
शिष्टाचारे भवेत्साधू रागः शुक्ले व वाससि ॥ 3-211-14(24260)
अहिंसा सत्यवचनं सर्वभूतहितं परम्।
अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः।
सत्यं कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः ॥ 3-211-15(24261)
सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम्।
आचारश्च सतां धर्मः सन्तो ह्याचारलक्षणाः ॥ 3-211-16(24262)
यो यथा प्रकृतिर्जन्तुः स स्वां प्रकृतिमश्नुते।
पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान् ॥ 3-211-17(24263)
आरम्भो न्याययुक्तो यः स हि धऱ्म इति स्मृतः।
अनाचारस्त्वध्रमेति एतच्छिष्टानुशासनम् ॥ 3-211-18(24264)
अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः।
ऋजवः शमसंपन्नाः शिष्टाचारा भवन्ति ते ॥ 3-211-19(24265)
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः।
गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत ॥ 3-211-20(24266)
तेषामहीनसत्वानां दुष्कराचारकर्मणाम्।
स्वैः कर्मभिः सत्कृतानां घोरत्वं संप्रणश्यति ॥ 3-211-21(24267)
तं तदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम्।
धर्म्यं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः ॥ 3-211-22(24268)
आस्तिका मानहीनाश्च द्विजातिजनपूजकाः।
श्रुतवृत्तोपसंपन्नास्ते सन्तः स्वर्गगामिनः ॥ 3-211-23(24269)
वेदोक्तः प्रथमो धर्मो धर्मशास्त्रेषु चापरः।
शिष्टाचीर्णश् शिष्टानां त्रिविधं धर्मलक्षणम् ॥ 3-211-24(24270)
धारणं चापि वेदानां तीर्थानामवगाहनम्।
क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् ॥ 3-211-25(24271)
सर्वभूतदयावन्तो ह्यहिंसानिरताः सदा।
परुषं च न भाषन्ते सदा सन्तो द्विजप्रियाः ॥ 3-211-26(24272)
शुभानामशुभानां च कर्मणां सबलाश्रयम्।
विपाकमभिजानन्ति ते शिष्टाः शिष्टसंमताः ॥ 3-211-27(24273)
न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः।
सन्तः स्वर्गजितः शक्त्या सन्निविष्टाश्च सत्पथे।
दातारः संविभक्तारो दीनानुग्रहकारिणः ॥ 3-211-28(24274)
सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः।
सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसंमताः ॥ 3-211-29(24275)
दाननित्याः सुखान्याशु प्राप्नुवन्त्यपि च श्रियम्।
पीडया च कलत्रस्य भृत्यानां च समाहिताः ॥ 3-211-30(24276)
अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः।
लोकयात्रां च पशय्न्तो धर्ममात्महितानि च।
एवं सन्तोवर्तमानास्त्वेधन्ते शाश्वतीः समाः ॥ 3-211-31(24277)
अहिंसा सत्यवचनमानृशंस्यवथार्जवम्।
अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः ॥ 3-211-32(24278)
धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः।
अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः ॥ 3-211-33(24279)
त्रीण्येव तु पदान्याहुः सतां वृत्तमनुस्मरन्।
न चैव द्रुह्येद्दद्याच्च सत्यं चैव सदा वदेत् ॥ 3-211-34(24280)
सर्वत्र च दयावन्तः सन्तः करुणवेदिनः।
गच्छन्तीह सुसंतुष्टा धर्म्यं पन्थानमुत्तमम् ॥ 3-211-35(24281)
शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः।
अनसूया क्षमा शान्तिः संतोषः प्रियवादिता ॥ 3-211-36(24282)
कामक्रोधपरित्यागः शिष्टाचारनिषेवणम्।
कर्म च श्रुतसंपन्नं सतां मार्गमनुत्तमम् ॥ 3-211-37(24283)
शिष्टाचारं निषेवन्ते नित्यं ध्रममनुव्रताः।
प्रज्ञाप्रासादमारूह्य मुह्यतो महतो जनान् ॥ 3-211-38(24284)
प्रेक्षन्ते लोकवृत्तानि विविधानि द्विजोत्तमाः।
अतिषुण्यानि दानानि तानि द्विजवरोत्तम ॥ 3-211-39(24285)
एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम्।
शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ ॥ 3-211-40(24286)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकादशाधिकद्विशततमोऽध्यायः ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-211-6 वृत्तं वृतं स्वेच्छोपात्तमिति यावत् ॥ 3-211-7 अतोऽन्यथा गुरुशुश्रूषणाद्यभावे ॥ 3-211-8 उपनिषद्रहस्यम् ॥ 3-211-9 अनुयाता अनुगन्ता ॥ 3-211-10 श्रुतिश्च त्यागाश्च ते द्वे परं अयनं स्थानं येषां ते श्रुतित्यागपरायणाः ॥ 3-211-14 शिष्टाचारवति शुक्लपोपमे योगधर्मः रागइव साधुर्भवेत्। शुक्लेव वेति इवार्थे ॥ 3-211-17 अनात्मवान् अजितचित्तः ॥ 3-211-19 अहंकारो दर्पः मत्सरः परदोषासहिष्णुत्वं तद्विर्जिताः। शिष्टं गुरुशास्त्रोक्तं आचरन्तः शिष्टाचाराः ॥ 3-211-20 त्रैविद्यवृद्धाः तिस्रो विद्या ऋग्यजुःसामात्मिका यत्रस त्रिविद्यो यज्ञस्तत्र साधवस्त्रैविद्या याज्ञिकाः। वृत्तं शीलं तद्वन्तः। मनस्विन जितचित्ताः ॥ 3-211-21 दुष्कराचारकर्मणां अन्यैर्दुष्करः आचारः शीलं कर्म यज्ञादि येषां तेषाम्। घोरत्वं हिंसादिदोषवत्त्वम् ॥ 3-211-22 पुराणमनादिम्। शाश्वतं अनवच्छिन्नम्। ध्रुवं नित्यम्। अत्याज्यमित्यर्थः ॥ 3-211-24 वेदोक्तोऽग्निहोत्रादिः। धर्मशास्त्रोक्तः अष्टकाश्राद्धादिः। शिष्ठाचीर्णः होलकादिः। शिष्टनां तुष्टिरिति शेषः ॥ 3-211-28 न्यायो युक्तिः। गुणाः शमादयस्तदुपेताः। संविभक्तारः कुटुम्बेषु ॥ 3-211-29 श्रुतधनाः विद्याधनाः ॥ 3-211-35 करुणाः करुणावन्तश्च ते वेदनशीलाश्च। मत्वर्थीयोऽच् ॥ 3-211-39 अतिपुण्यानि पापानि इति झ. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|